वांछित मन्त्र चुनें

क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् । क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ॥

अंग्रेज़ी लिप्यंतरण

kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat | kṣemaṁ kṛṇvānā janayo na sindhavas tā asya varṇaṁ śucayo bharibhrati ||

पद पाठ

क॒विः । क॒वि॒ऽत्वा । दि॒वि । रू॒पम् । आ । अ॒स॒ज॒त् । अप्र॑ऽभूती । वरु॑णः । निः । अ॒पः । सृ॒ज॒त् । क्षेम॑म् । कृ॒ण्वा॒नाः । जन॑यः । न । सिन्ध॑वः । ताः । अ॒स्य॒ । वर्ण॑म् । शुच॑यः । भ॒रि॒भ्र॒ति॒ ॥ १०.१२४.७

ऋग्वेद » मण्डल:10» सूक्त:124» मन्त्र:7 | अष्टक:8» अध्याय:7» वर्ग:10» मन्त्र:2 | मण्डल:10» अनुवाक:10» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कविः) क्रान्तदर्शी परमात्मा (कवित्वा) अपनी क्रान्तदर्शिता से (दिवि) द्योतमान चेतनस्वरूप में (रूपम्) आनन्दरूप को (आसजत्) आसक्त करता है, तो (वरुणः) साङ्कल्पिक प्राण (अप्रभूती) स्वाभाविक विभूति से प्रकट होती है, व (अपः निः-असृजत्) प्राणप्रवृत्तियाँ भी मोक्ष में साङ्कल्पिक शरीर होने से प्रवृत्त होती हैं। (क्षेमं कृण्वानाः जनयः-न) कल्याण करती हुई स्त्रियों के समान (ताः शुचयः सिन्धवः) वे पवित्र स्यन्दमान कामनाएँ (अस्य वर्णं भरिभ्रति) इस आत्मा के स्वरूप को धारण करती हैं ॥७॥
भावार्थभाषाः - मोक्ष में परमात्मा आत्मा के अन्दर अपने आनन्द को भर देता है, साङ्कल्पिक प्राण की प्रवृत्तियाँ भी अपनी विभूति से प्रवृत्तियों को चालू कर देती हैं, जो इस आत्मा की कामनाओं को पूरा करती हैं, इसके रूप को चमकाती हैं ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कविः) क्रान्तदर्शी परमात्मा (कवित्वा) स्वक्रान्तदर्शित्वेन (दिवि) द्योतमाने चेतने स्वरूपे (रूपम्-आ असजत्) ज्ञानानन्दरूपमासक्तं करोति तदा (वरुणः) साङ्कल्पिकप्राणः (अप्रभूती) स्वाभाविकतत्त्व-विभूत्या आविर्भवति (अपः-निः-सृजत्) प्राणप्रवृत्तीरपि निःसृजति मोक्षे साङ्कल्पिकशरीरभावात्-साङ्कल्पिकप्राणप्रवृत्तयोऽपि सम्प्रवर्तन्ते (क्षेमं कृण्वाना जनयः-न) ताः कल्याणं कुर्वाणाः स्त्रिय इव (ताः शुचयः सिन्धवः) ताः पवित्राः स्यन्दमानाः कामाः “समुद्र इव कामाः” “स यं यं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठते तेन सम्पन्नो महीयते” (अस्य वर्णं भरिभ्रति) अस्य मुक्तात्मनो वर्णं वास्तविकं रूपं धारयति “परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” ॥७॥